श्रीगुरुभ्यो नमः ।। चेतनाचेतनजगन्नियन्त्रे शेषसंविदे । नमो नारायणायजशर्वशक्रादिवन्दित ।।1।। कृत्वा भाष्यानुभाष्येहमपि वेदार्थसत्पतेः । कृष्णस्य सूत्रानुव्याख्यासन्न्यायविवृत्तिव स्फुटम् ।।2।। करोमि मन्दबुद्धीनां बुधानां चोपकारिकाम् । प्रीत्यै तस्यैव देवस्य तत्प्रसादपुरःसरः ।।3।। जीवव्यतिरिक्तेश्वरस्याभावात् तस्य च स्वप्रकाशत्वान्न जिज्ञास्यतेति प्राप्ते "अथातो ब्रह्मजिज्ञासा' इत्याह । "तद्विजिज्ञासस्व तद्ब्रह्म' इति ब्रह्मशब्देन पूर्णगुणत्वोक्तेर्नानुभवसिद्धाल्पगुणजीवाभेदः । "अथ कस्मादुच्यते ब्रह्मेति । बृहन्तो ह्यस्मिन् गुणाः' इति श्रुतेः ।।1।। न जीव एवायं ब्रह्मशब्दः । "यतो वा इमानि भूतानि जायन्ते' इत्यादिना जन्मादिकारणत्वस्यैव ब्रह्मƒक्षणत्वोक्तेः ।।2।। न च रुद्रादौ सममेतल्लक्षणम् । शास्त्रैकसमधिगम्यत्वात् कारणत्वस्य ।।3।। न च पाशुपतशास्त्रोदितत्वादि शास्त्रप्रतिपाद्यत्वे कारणम् । किन्तूपक्रमादिƒक्षणः समन्वय एव ।।4।। न च तस्यावाच्यत्वं श्रुत्यभिप्रायः । "सर्वे वेदा यत्पदमामनन्ति' इत्यादि श्रुतिसहितानुभवस्य बƒवत्वात् ।।5।। न चावयवत्वविरोधः "नेह नानास्ति किञ्चन' इति श्रुतेरवयवाद्यभेदात् ।।6।। न च "ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठां दिव आत्मानं सवितारं बृहस्पतिम् । चतुर्होतारं प्रदिशोनुक्लृप्तं वाचो वीर्यं तपसान्वविन्दत् ।।' इत्यादि शब्दानामन्यविषयत्वम् । श्रुतिसन्देेहेनन्यथासिद्धिƒङ्गेन निर्णयोपपत्तेः ।।7।। अधिभूताध्यात्माधिवेदगतानामपि शब्दानामचेतनत्वजीवान्वयव्यतिरेकित्वनित्यत्वेषु विद्यमानेष्वपि भगवद्विषयत्वमेवानन्यथा सिद्धिƒङ्गैः । "तावानस्य महिमा ततो ज्यायांश्च पुरुषः' इत्यादिशब्दसहितिƒङ्गैश्च । सन्दिग्धश्रुतििƒङ्गाभ्यामुक्ताभ्यामपि असन्दिग्धयोः केवƒयोरेव बƒवत्वात् ।।8-11।। न च चानन्यथासिद्धत्वमन्यत्र श्रुतििƒङ्गादेः । अन्यगतिƒङ्गदीनामपि तद्गभगवदपेक्षया युक्तेः ।।12।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य प्रथमः पादः ।। अथ द्वितीयः पादः बहुिƒङ्गसहितश्रुतेरपि सावकाशायाः निरवकाशश्रुत्यादीनामेव बƒवत्वम् । बहवो ह्यत्रादित्यशब्दाः । क्षित्यादिषूक्त्वादित्येनुक्तिरित्यादििƒङ्गं च । तथापि निरवकाशा एतमेवेत्यवधारणादयः ।।1।। सन्दिग्धश्रुतििƒङ्गाभ्यां निश्चितिƒङ्गप्रकरणयोरेव बƒवत्वम् । सन्दिग्धश्रुतिः िƒङ्गं चादितिशब्दोदितत्वं च ।।2।। द्विवचनश्रुतेरपि निरवकाशत्वं नास्ति । विष्णोरेव द्विरूपत्वात् ।।3।। "सोहमस्मि' "स एवाहमस्मि' इत्याद्यभ्यासार्थवादसहितबहुश्रुतिभ्योपि निरवकाशोपपत्तेरेव प्राबल्यम् ।।4।। पृथिव्यादिशरीरत्वं च न निरवकाशम् । यौगिकशरीरत्वोपपत्तेः विष्णोरपि ।।5।। "अक्षरात् परतः परः' इति श्रुतेरपि नाक्षरात् सम्भवतीह विश्वं इत्यस्या निरवकाशत्वम् । अक्षरात् परतः परस्याप्यक्षरान्तरत्ववचनात् ।।6।। श्रुतिसाधारण्येपि विशेषश्रुत्यादेः निश्चयः । उभयत्र विशेषश्रुत्यादौ पुनः स सावकाशत्वनिरवकाशत्वबƒात् निश्चयः ।।7।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य द्वितीयः पादः ।। अथ तृतीयः पादः "प्राणानां ग्रन्थिरसि' "रुद्रो वै ƒोकायतनम्' "वायुना वै गौतम सूत्रेणायं च ƒोकः परश्च ƒोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति ।' "सर्वे वा एते प्राणाश्च प्राणिनश्च देवाश्च दिव्यानि च ƒोकाश्च ƒोकिनश्चाƒोकिनश्च विष्णोरेवोताश्च प्रोताश्च भवन्ति' इत्यादेः द्युभ्वाद्यायतनत्वमज्ञानां साधारणं िƒङ्गम् ।।1।। "प्राणो वा आशाया भूयान्' "विष्णुर्वै देवेभ्यो भूयांस्तस्माद् भूयान्नाम' इत्यादेर्भूमशब्दोज्ञानां साधारणः ।।2।। विष्णोश्चेतनप्रकृतेश्चाविनाशित्वसाम्यादक्षरशब्दः साधारणः ।।3।। कारणत्वसाम्यात् विष्णोरचेतनप्रकृतेश्च "सदेव सोम्येदमग्र आसीत्' इत्यादिसृष्टिस्थानं साधारणम् ।।4।। िƒङ्गं हृत्पद्मस्थितत्वं साधारणम् ।।5।। "कथं नु तद्विजानीयाम्' इत्यानुकूल्येन ग्रहणं कस्येति विचार्यमनुग्रहः ।।6।। पुनः शब्दाः "ईशानो वज्रो ज्योतिराकाशः' इति ।।7।।10-12।। िƒङ्गं स्वप्नादिदर्शनं कस्येति ।।13।। शब्दो ब्राह्मण इति ।।14।। "यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मन ओतं प्राणा ओताः' इत्यत्रोक्तानां िƒङ्गानामन्यत्र रुद्रादिविषयत्वे शब्दिƒङ्गबाहुल्यम् । "प्राणानां ग्रन्थिरसि रुद्रो माविशान्तकः ।' "प्राणेश्वरः कृत्तिवासाः पिनाकी' "मनो वै रुद्र ओतं च प्रोतं च' "रुद्रो वाव ƒोकाधारः' इत्यादिकं शब्दबाहुल्यम् ।।1।। "प्राणो वा आशाया भूयान्' इत्युक्त्वा प्राणाद्भूयसोनुक्तिः ।।2।। अत्तेत्युक्त्वा "न तदश्नाति किञ्चन' इति विरुद्धता ।।3।। "बहु स्यां प्रजायेय' इत्यन्यस्यान्यभावादृष्टिः ।।4।। "दहरोस्मिन्नन्तर आकाशस्तस्मिन्यदन्तिस्तदन्वेष्टव्यम्' इत्यनेन "यावान्वा अयमाकाशस्तावानेषोन्तर्हृदय आकाशः' इत्यस्यान्वयाभावः ।।5।। "तदेतदिति मन्यन्ते' "कथं नु तद्विजानीयाम्' इति "तेषां सुखं शाश्वतं नेतरेषाम्' इत्युक्तज्ञानिसुखग्रहणमिति विपरीतश्रुतिभ्रमः ।।6।। "ऊर्ध्वं प्राणमुन्नयति' इत्यादििƒङ्गानां प्राणादन्यत्रावकाशराहित्यमिति भ्रमः । एवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते इत्यादिवाक्यात् भ्रमः ।।7।। वज्रशब्द उद्यतिƒङ्गं च तादृग्द्वयम् ।।10।।8।। आदित्यादिज्योतिष्ट्वमुभयƒोकसञ्चरणम् "आदित्येनैवायं ज्योतिषास्ते' इत्यवधारणमित्यादीनां परमात्मान्यवकाशाभावो बहुतादृक्त्वम् ।।11।।9।। "वै नाम' इति प्रसिद्धिद्योतकनिपातद्वयं रूढित्यागेनोक्तयौगिकार्थस्वीकारे विरोधि ।।12।।11।। जीवेश्वराभेदे ईश्वरोक्तावप्यर्थाज्जीव एवोच्यत इत्यर्थात् तथागतिः ।।13।।11।। ब्राह्मणशब्दस्य पापाƒेपिƒङ्गस्य च चतुर्मुखस्य सह परमात्मनाभेदं विनावकाशराहित्यदर्थादभेदप्राप्तिरिति समस्तमेतत् ।।14।।12।। पूर्वपक्षः।। तेषामेव िƒङ्गशब्दानां "प्राणानां ग्रन्थिरसि' इत्यादीनां विष्णौ मुख्यवृत्तिरिति बƒवत्वम् । तस्य हि रुग्द्रावणादिकर्तृत्वं मुख्यम् ।।1।। प्राणस्य विष्णोः सकाशात् भूयस्त्वानुक्तिः । चशब्देन "एष तु वा अतिवदति' इति प्राणाद्विष्णोर्भूयस्त्वोक्तिश्च ।।2।। सर्वाधारप्रकृत्याधारत्वं विष्णोरन्यस्य विरुद्धम् । "पतिं विश्वस्यात्मेश्वरं' "विश्वात्मानं परायणम्' इत्यादिश्रुतेः । अनशनत्वोक्तिस्त्वनुपजीवनार्थत्वेनैव सावकाशता ।।3।। अचेतनस्येक्षणादृष्टिः । बहुभावश्रुतिस्त्वन्यभावं विना तत्तन्नियामकतया स्वरूपबहुत्वार्थत्वेनैव युज्यते ।।4।। आकाशपक्ष एवान्वयाभावः । विष्णुपक्षे तु योन्वेष्टव्यो भगवान् तस्यान्तर्हृदये यावान् वायमाकाशस्तावानाकाशः तस्मिन् द्यावापृथिवी अन्तरेव समाहिते स भगवानपहतपाप्मेत्यन्वयः ।।5।। यज्ज्ञानाच्छाश्वतं सुखं स भगवान् यद्ब्रह्मानिर्देश्यं सुखमिति वदन्ति तदेतत्स्वरूपमिति मन्यन्ते । अतः पूर्ववादविपरीतैव श्रुतिः । पूर्ववादोक्तयोजना तु भ्रम एव ।।6।। िƒङ्गानां परमात्मन्यवकाशो विद्यत एवेति तद्राहित्यं भ्रम एव । वामनश्रुतेरेवानकाश इति ईशानाशब्दोक्तो विष्णुरेव ।।7।। वज्रशब्दस्योद्यतत्वस्य च विष्णावेवावकाशः । उद्यमित्वमेवोद्यतत्वमिति ।।10।।8।। "अयं पुरुषः' इति संसारी । आत्मशब्दोदित एव विष्णुः । अत आदित्यादिज्योतिष्ट्वं संसारिण एव । "आदित्येनैव' इत्यवधारणं बाह्यज्योतिष्षु प्राधान्यापेक्षयेत्यादि । ƒोकसञ्चरणं तु जीवमादाय तस्यैवादुःखेन स्वातन्त्र्यात् ।।11।। वै नामेति निर्वहितृत्वे श्रुत्यादिप्रसिद्धिबाहुल्यम् , प्रसिद्धाकाशस्योक्तमनामरूपत्वं विरुद्धम् ।।12।। सुषुप्त्युत्क्रान्त्योर्जीवेश्वरयोः भेदोक्तेरसङ्गतत्वादि चेश्वरस्यैवेत्यर्थात् भेद एव भवति । जीवस्य तदयुक्तेरीशे सावकाशत्वाच्च ।।13।। ब्रह्मणा वेदेन गम्यत इति ब्राह्मणशब्दो विष्णावेव युज्यत इत्यर्थादजशब्दोपि तस्मिन्नेव । चतुर्मुखस्य कर्मफƒाभावायुक्तेस्तयोर्भेदोर्थादापद्यत एव । उक्तिविरोधश्च तत्रैव । भेदश्रुतिबाहुल्यात् । तल्लिङ्गं स शब्दश्च चतुर्मुखेनवकाश इति समस्तमेतत् ।।14।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य तृतीयः पादः ।। अथ चतुर्थः पादः अवरत्वादिधर्मनियन्तृत्वं तत्तादात्म्यवत्वं चेति द्विविधं ह्यवरत्वादि । "निरनिष्टो निरवद्यः' इत्यादिश्रुतेस्तत्तद्दोषतादात्म्यात्यस्पृष्टिनियमात् विष्णोः "नामानि सर्वाणि यमाविशन्ति' इति श्रुतिबƒाच्च नियन्तृत्वमवरत्वादिकमित्यापतति । श्रुतिद्वयस्यापि निरवकाशत्वात् । मृत्युशब्दादिषु प्रसिद्धेश्च । प्रसिद्धत्वाच्च कर्तृव्युत्पत्तेः । "तमेव मृत्युममृतं तात दैवं सर्वात्मनावैहि परं परायणम्' इत्यादेश्च । उपचारकल्पनायाश्च क्लिष्टत्वात् । प्रमाणाभावाच्च । नाव्यक्तादिशब्दानां परमात्मविषयत्वङ्गीकारे सर्वमानविरोधः ।।1।। रूढिः (रूढो रूढयोगो महारूढो महायोगो महारूढयोगो - पा) योगः रूढियोगः महायोगो रूढी रूढियोगो महायोगो महारूढियोगो रूढोपचारो रूढƒक्षणोपचारो ƒक्षणेति शब्दवृत्तिभेदात् रूढिपूर्वकत्वेन महायोगवृत्या परमेश्वरे अखिƒशब्दव्युत्पत्युपपत्तिः ।।2।। बहुरूपत्वादधिकरणाधेयत्वादिकं तस्यैव युज्यते ।।3।। व्यक्त्यपेक्षया कार्यत्वं च ।।4।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे प्रथमाध्यायस्य चतुर्थः पादः ।। अथ द्वितीयोध्यायः प्रथमः पादः रुद्रादीनां सकाशात् विष्ण्वादीामेवाप्तत्वम् । श्रुत्यनुसारित्वात् ।।1।। न च श्रुतेः रुद्रादिस्मृतिसाम्यं किन्तु साक्षिप्रत्यक्षसाम्यमेव निरपेक्षत्वात् ।।2।। न मृदादीनां वचनाद्यदृष्टिः श्रुत्यप्रामाण्यकारणम् । अपि तु वचनादिशक्ताया देवताया मृदादिशब्दवाच्यत्वद्योतिकैव ।।3।। ईश्वरस्य स्रष्टृत्ववदसतोपि स्रष्टृत्वं श्रूयत इति नास्ति । सोसच्छब्दो ब्रह्मशब्दवदेव ब्रह्मवाचक इति श्रुतिसाम्यम् ।।4।। "कर्माणि विज्ञानमयश्च आत्मा परेव्यये सर्व एकीभवन्ति' इति श्रुतिबƒान्नैक्यम् । किन्तु भेदापादकमेवैतत् "निरञ्जनः परमं साम्यमुपैति' "परात् परं पुरुषमुपैति दिव्यम्' इति सन्निहितवाक्यबƒात् । एकीभावशब्दस्तु सान्निध्येपि भवति । "एकीभूता तु सा सेना पाण्डवानभ्यवर्तत' इतिवत् । यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ।। इति वाक्यान्तराच्च ।।5।। न च ƒौकिकसर्वकार्यानुसारेणाकर्तृतन्त्रत्वं सर्वानुसारः । किं तर्हि तद्वैƒक्षण्येन सर्वकर्तृविƒक्षणसर्वशक्तित्वमेवाशेषयुक्तिश्रुत्यनुसारि । "एष सर्वेश्वरः' इति श्रुतेः । युक्तिमात्राच्छ्रुतियुक्ता हि युक्तिर्बƒवती ।।6।। न चेश्वरत्यागेन जीवस्यैव कर्तृत्वाङ्गीकारे कल्पनाƒाघवम् । श्रुतिसिद्धत्वेनाकल्पनात् । अश्रुतजीवकर्तृत्वाङ्गीकारे गौरवमेव । तदभावात् सिद्धान्ते ƒघुता । "नान्यः कर्ता स हि स्वतन्त्रः परमात् परमो हरिः' इत्यादेश्च । अभेदपक्षस्तु निराकृतः । श्रुत्यनुभवविरोधाच्च ।।7।। शब्दैकसमधिगम्यत्वसर्वशक्तित्वादीनां विशेषाणामदर्शनं जीवे । न जीवाद्विशेषादर्शनं परमेश्वरे । विशेषश्रुतेरेव ।।8।। न च प्रयोजनाभावोकर्तृत्वे कारणम् । अशेषकर्तृत्वापादकश्च । फƒापेक्षिणस्त्वपूर्णत्वादेव न सर्वकर्तृत्वादिशक्तिः इतरस्य पूर्णत्वादेवानन्तशक्तित्वाच्च ƒीƒयैव कर्तृत्वम् ।।9।। नेशस्य पूर्णत्वासिद्धिः । कर्मसापेक्षत्वेनीशत्वमनपेक्षत्वे श्रुतेरप्रामाण्यमिति । कर्मणोपि तदधीनत्वम् । तथापि तदनुसारेण फƒदानमित्यनङ्गीकार एवेष्टश्रुतिप्रामाण्यासिद्धिः ।।10।। सर्वचेतना अपूर्णगुणा इति नियमो न । स्वतन्त्रस्य पूर्णगुणत्वनियमात् "अपूर्णोयं जीवसङ्घोस्वतन्त्रः पूर्णो हरिर्यः स्वतन्त्रः सदैव । न हि स्वतन्त्रोपूर्णतां कामयीत पूर्णो यदि स्यादस्वतन्त्रः कुतः सः ।।' इति श्रुतेः ।।11।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य प्रथमः पादः ।। अथ द्वितीयः पादः उक्तविरोधिनस्तत्तत्समयसिद्धाः पूर्वपक्षन्यायाः तद्विरोधिनोन्ये इति प्रसिद्धा एव ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य द्वितीयः पादः ।। अथ तृतीयः पादः न च वियतः उत्पत्तिमत्वेनुभूतियुक्तिबहुवाग्विरोधोस्ति व्यवस्थायोगात् । अवकाशमात्रस्याव्याकृतात्मकत्वादनुत्पत्तिवचनानां तद्विषयत्वं उत्पत्तिवचनानामसितवर्णभूताकाशतदभिमानिशरीरविषयत्वं पराधीनविशेषत्वमात्रविषयत्वं चेति व्याख्या । आकाशो नीिƒमोदेति न प्रदेशः कथञ्चन । अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपि ।। इति पैङ्गिश्रुतिः ।।1।। ततोधिकमेतत्सर्वमनुभूत्यादिविरुद्धत्वं वायूत्पत्ताविति न वायोरेवानुत्पत्त्यनुपपत्तेः । पराधीनविशेषमात्रं ह्युत्पत्तिः । तदभाव उभयोः स्वातन्त्र्यं विरुद्धमेव । सर्वोत्तमत्वानुपपत्तेः । उभयोरपि पराधीनत्वप्राप्तेश्चान्योन्यानुरोधे अननुरोधे तु न सर्वैश्वर्यम् । ज्ञानाविस्मृत्या वायावपि व्यवस्थेत्यतिदेशः । अनुपपत्तिस्तु तत्प्रापिका । पराधीनविशेषवत्त्वमात्रं त्वाव्याकृताकाशस्य तदभिमानिप्रकृतेश्च सममेव ।।2।। न च सतः पराधीनविशेषवत्वं स्वातन्त्र्यात् ।।3।। न च विष्णोरेव तेजस उत्पत्तौ द्वारकारणवैयर्थ्यम् । द्वारमनुसृत्यैव विष्णोः प्रवृत्तेः ।।4।। न च तेजस एवापामुत्पत्यङ्गीकारे घर्मात् स्वेदादिदृष्ट्यनुसारित्वमिति गुणाधिक्यम् । मुख्यार्थपरित्यागप्राप्तेः ।।5।। न चअद्भ्यो वान्नमुत्पद्यते इत्याद्युक्तप्रसिद्धान्नाख्यान्यार्थाविरोधेन प्रसिद्धान्ननामस्वीकारे बहुवाक्यानुवर्तितेति गुणः । अन्नशब्दस्य प्रयोगबाहुल्यात् पृथिव्यामपि शक्तिमत्वात् । अधिकारादीनां निरवकाशत्वाच्च । बहुवाक्यानुरोधोप्यत्रैवेति ।।6।। न च रुद्रादीनां ƒयकारित्वाङ्गीकारे पितुरन्यस्य मारकत्वदृष्टेः ƒोकदृष्ट्यनुसारित्वमिति गुणः । ƒोकपितृवैरूप्यात् विष्णोर्यथावाक्यमङ्गीकारोपपत्तेः । अन्यथा "न विष्णोरन्यो विƒयकृन्न विष्णोरन्यो विमुक्तिदः' इत्यादि श्रुतिविरोधात् । रुद्रस्य तु क्वचित् संहारद्वारत्वेनैव तद्वाक्यानां सावकाशत्वात् ।।7।। न च ƒोकानुसारित्वम् । क्रमादुत्पद्यते क्रमात् विƒीयते क्रमेणैवोत्पत्तिः विƒयश्च क्रमेणैवास्योत्पत्तिविƒयौ इत्यादि ƒोकानुसारिबहुश्रुत्यनुरोधश्च यथोत्पत्तिƒये । द्विविधः क्रम उद्दिष्टो व्यत्क्रमनुक्रमस्तथा । सुष्टावन्यो ƒये चान्य इति वेदविदो विदुः ।। इति श्रुतेः क्रमवाक्यस्य सावकाशत्वात् वैरूप्यं बहुप्रकारत्वं क्रमस्य ।।8।। न च केषाञ्चित् क्रमाल्लयः केषाञ्चित् व्युत्क्रमाल्लय इत्यङ्गीकारे ƒोकदृष्ट्यनुसारादन्तरा विज्ञानमनसी व्युत्क्रमः । सर्वं वा एतत् क्रमादुत्पद्यते व्युत्क्रमाल्लीयते इति श्रुतौ सर्वस्यापि व्युत्क्रमाल्लयसङ्ग्रहात् तल्लिङ्गस्य तु चराचरव्यपाश्रयविज्ञानादिविषयत्वेवैव सावकाशत्वात् ।।9।। न च चेतनत्वसाम्यात् विष्णोरपि देहƒयः । "सर्वे वा एते चिदात्मानो ब्रह्मंल्लयमनुप्राप्य विष्णोरुदरे संविशन्ति' इति तस्योदरे सर्वसङ्ग्रहादिश्रुतिभ्यो नित्यत्वावगमात् तद्देहस्य । अश्रुतत्वाच्चान्यथा ।।10।। न चानादित्वाज्जीवस्य पराधीनविशेषाप्राप्तिः । "इदं सर्वमसृजत' इति सर्वस्मिन् गृहीतत्वात् । पराधीनविशेषवत्वेप्यनादित्वस्याविरोधात् ।।11।। न च सर्वदेहे स्पर्शज्ञानाद्रसादीनां च तत्र तत्र परिज्ञानाज्जीवस्यानणुत्वम् । उत्क्रान्तिगत्यादेः । आदिशब्देन सूक्ष्मतेजोरूपेण व्याप्त्या स्पर्शादिज्ञानोपपत्तिः । अतोणुत्वमनणुत्वं चेति भावः ।।12।। न च जीवस्य बहुरूपत्वशक्तावीशेन गुणसाम्यम् । ईशशक्त्यैव बहुरूपत्वादेः ।।13।। न च श्रुत्या जीवेश्वरैक्यम् । सर्वमानविरोधात् । श्रुतेः सादृश्यैक्यवादिना सावकाशत्वात् । बहुमानविरोधे एकस्य दौर्बल्याच्च । धर्मिग्राहकविरोधाच्च ।।14।। न चोत्पत्तिमत्वाद्विनाशित्वं जीवस्य । अनित्यत्वे तदभीष्टमोक्षाद्यसिद्धेः । न च पराधीनविशेषवत्वमात्रेण विनाशित्वम् । तादृशानामेव नित्यत्वश्रुतिविरोधात् ।।15।। न च स्वगुणाननुभूतत्यनुपपत्तेः पूर्वं ज्ञानादीनां सामस्त्येनाभावः । पूर्वमव्यक्तानां पश्चात् सुव्यक्त्युपपत्तेः ।।16।। न चेश्वरस्यैव कर्तृत्वे कल्पनाƒाघवम् । जीवस्याकर्तृत्वे शास्त्रवैयर्थ्यात् । तस्यापि कर्तृत्वे शास्त्रार्थसिद्धेश्च ।।17।। न च नानाश्रुतेरप्रामाण्यम् । दृष्टभेदानुसारेण तासामर्थोपपत्तेः । अप्रामाण्यकल्पनस्य विपरीतज्ञानमूƒत्वात् ।।18।। न च वैचित्र्यमनाभासत्वे कारणम् । जीवानां सामान्यतः आभासत्वेपि विशेषादृष्टात् वैचित्र्योपपत्तेः ।।19।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य तृतीयः पादः ।। चतुर्थः पादः न च प्राणानामुत्पत्यङ्गीकारे "प्राणा एवानादयः' इत्यादिस्पष्टार्थवद्विशेषश्रुतिविरोधः । "आत्मैवेदमग्र आसीत् स प्राणमसृजत स प्राणान्' इत्यादिवचनादनादित्व एव स्पष्टार्थवद्विशेषश्रुतिविरोधात् । "इदं सर्वमसृजत' इति सामान्यवचनस्याधिक्यं सिद्धान्ते । विशेषमात्रश्रुतेः सावकाशाया उभयश्रुतेः प्राबल्यात् ।।1।। न च "नित्यं मनोनादित्वात्' इति विशेषश्रुतिविरोधः । "एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति विशेषश्रुतेः ।।2।। न च "वाग्वाव नित्या' इति विशेषश्रुतिविरोधः "मनसो वाव वागुत्पद्यते वाचो व्याहरणम्' इति विशेषश्रुतेः ।।3।। न च "दशेमे पुरुषे प्राणाः आत्मैकादशः' "सप्त प्राणाः प्रभवन्ति तस्मात्' इति सङ्ख्याविशेषश्रुत्योरेव परस्परविरोधः । "गुहायां निहिताः सप्त सप्त' इति सप्तभावस्य बुद्धीन्द्रियविषयत्वेन विशेषितत्वात् सङ्ख्याश्रुत्योः विषयवैƒक्षण्यात् ।।4।। न च "दिवीव चक्षुराततम्' इति व्याप्त्याख्यविशेषवाचकश्रुतिविरोधः । "अणूनि वा इन्द्रियाणि तेषां प्रकाशो व्याततः' इति ततोप्यणुत्ववाचकविशेषश्रुतिविरोधात् ।।5।। न च यत्प्रीतिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते ।। इत्यादिमाहात्म्यवचनात् मुख्यप्राणस्य नोत्पत्तिरिति वाच्यम् । महत्वान्महतां विष्णुः कर्ता प्राणस्य चैकराट् । किं नाम न सृजेदेष येन शक्येदमावृतम् ।। इति श्रुतेस्ततोपि माहात्म्याद् विष्णोः ।।6।। न च प्राणादिपञ्चस्य व्यक्तसद्गुणत्वान् मुख्यप्राणवृत्तित्वमेव । अशेषगुणपूर्णानि मुख्यरूपाणि पञ्च च । तद्दासाः पञ्च चान्येपि प्राणाद्याः सद्गुणैर्युताः ।। इति श्रुतेः मुख्यप्राणस्य ततोपि व्यक्तसद्गुणत्वात् ।।8।। न चाणुत्वे प्राणस्य "महान् वै मुख्यप्राणो येन व्याप्तं चराचरम्' इति दृष्टायुक्तिः । "अणुर्वै मुख्यप्राणो य उत्क्रामति नाडीभिः' इति दृष्टायुक्तेरनणुत्वे प्राणस्य ।।9।। न चेन्द्रियाणां जीवाकरणत्वे दृष्टायुक्तिः । क्वचिदतद्वशत्वस्यापि दृष्टत्वात् । "यच्चक्षुषि तिष्ठन्' इत्यादिदृष्टात्युक्तेरीशाधीनत्वानङ्गीकारे । ƒौकिकदृष्टेस्त्वीशेनैव जीवानुसारित्वक्ƒृप्त्योपपत्तेः ।।10।। न चेशवशत्वसाम्यात् मुख्यप्राणस्याप्यन्यसाम्यम् "यस्मिन्निदं सर्वमध्याधर्‌नोत्' "प्राणस्यैतद्वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम्' इत्यादि श्रुतेरीशसाम्यस्यापि भावात् । "प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः' इति श्रुतेर्मध्यमत्वोपपत्तेः ।।11।। न च विरिञ्चस्यापि कर्तृत्वशक्तेः स एव शरीरादिस्रष्टा । त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया । रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ।। अतो रूपस्य नाम्नश्च व्यवहारस्य चैकराट् । हरिरेव यतः कर्ता पितातो भगवान् प्रभुः ।। इत्यादेस्तस्यैव कर्तृत्वशक्तेर्विरिञ्चस्य तु द्वारतयोपपत्तेः ।।12।। न च मिश्रत्वाद् भूतानां मिश्रतायामविशेषः । "अन्नमशितं त्रेधा विधीयते' इत्यादिना मिश्रतायामपि विशेषोक्तेः । सर्वं च भौतिकं मिश्रं मिश्रत्वेपि विशेषतः । भौमं मांसमसृग्वारि तेजो मज्जा विशेषतः ।। इत्यादेश्च ।।13।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे द्वितीयाध्यायस्य चतुर्थः पादः ।। अथ तृतीयोध्यायः ।। प्रथमः पादः "भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्' इति वचनात् स्वाभाविकमरणमेव मुक्तिरिति न मन्तव्यम् । मुक्तिसाधनत्वेन ज्ञानादिगुणाधिक्योपदेशात् मरणे भूतवियोगस्यैवाभावात् । "भूतयुक्तः परं ƒोकमिमं ƒोकं च गच्छति' इत्यादिवचनात् ।।1।। "इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इत्यत्र भूतानीति सामान्यनामानुक्त्वापामिति विशेषनामकथनादपामेव सहगतिरिति न वाच्यम् । त्र्यात्मकत्वादपामर्थतः सर्वभूतानां गतिप्राप्तेः ।।2।। न च भूतानि गच्छन्तीति सहैवानुक्तेस्तदभावः । प्राणगतेरुपपत्तित उक्तत्वात् ।।3।। न च "अग्निं वागप्येति' इत्याद्यन्यथोक्तेः प्राणानां च न सहगतिः द्विरूपत्वात् प्राणानाम् ।।4।। न च "प्रथमतो भूतानि जुह्वति' इति विशेषानुक्तेः भूतानामसहगतिः "भूतानि जुह्वति' इत्युपक्रमादपि "इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इत्युपसंहारस्याधिक्यात् तदनुसारेणोपक्रमोक्तश्रद्धाशब्दस्यापि ता एवार्थ इत्यापत्तेः । उपक्रमविरोधेनोपसंहारानुपपत्तेः । उपक्रमप्रामाण्यार्थमेवोपसंहारानुसारित्वमङ्गीकर्तव्यम् । व्याख्यानस्य पश्चात्तनत्वनियमात् । उपक्रमानुसारित्वनियमेप्युपसंहारस्योपसंहारेणैवोपक्रमार्थो ज्ञायते ।।5।। न च विशेषाश्रवणनियम एव बƒवान् । स्थानान्तरश्रवणस्याप्येतदनुरूपत्वात् । आर्थिकश्रवणमप्यनुक्तिं बाधत एव । किमु स्थानान्तरगतं स्पष्टश्रवणमिति कैमुत्यार्थमेव नेष्टादिकारिणां प्रतीतेरिति परिहारान्तरमुक्तम् ।।6।। न च "अपाम सोमममृता अभूम' इति विशेषत एव मोक्षफƒस्याप्युक्तेः कर्मैव तत्साधनमिति मन्तव्यम् । "नान्यः पन्थाः अयनाय विद्यते' "स च आत्मानामेव ƒोकमुपास्ते । यावदिन्द्रो यावन्मनुर्यावदादित्यः' इत्यादिश्रुतिबƒादमृतशब्दस्य यथायोग्यमेवार्थकल्पनोपपत्तेः ।।7।। न चानुशयस्यापि सहभावात् स्वर्ग एव फƒदत्वम् । भुक्तशेषानुशयवान् इत्यादिवचनाद्यथायोग्यमेव फƒदानोपपत्तेः ।।8।। न च मार्गस्यापि सहभावाद्यथागतमेवागमनमिति नियमः । वचनबƒाद्यथायोग्यमेवागमनोपपत्तेः ।।9।। न च "इष्टापूर्ते दत्तमित्युपासते' इत्युपशब्देनेष्टादिभिराचारस्य सहपाठाच्चरणफƒं पुनरावृत्तिं करणफƒत्वेन भ्रमात् वदन्तीति वाच्यम् । "नान्यः पन्थाः' इत्यादिवचनादेवोभयोरपि चरणशब्देनैवोक्तेर्योग्यत्वात् ।।10।। न च भयफƒकामादिमिश्रबुद्धित्वादिष्टादिकारिणां संसारः । अनिष्टकादिकारिणां तदभावान्मुक्तिरिति वाच्यम् । तेषां प्रबƒदोषश्रुतेः ।।11।। न च नरकभोगस्यानित्यत्वकथनान्नित्यनरकोक्तिः विरुद्धा । रौरवोथ महांश्चैव वह्निर्वैतरणी तथा । कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि तु ।। तामिस्रश्चान्धतामिस्रो द्वौ नित्यौ सम्प्रकीर्तितौ ।। इति विभागात् ।।12।। न च सहस्थानादीशस्यापि नरकदुःखप्राप्तिः । स्वातन्त्र्यात् कारणाभावात् ।।13।। न च साधनेन सह श्रुतेस्तद्वत् फƒेपि जीवस्य स्वातन्त्र्यम् । अविहितत्वेन कारणाभावात् । अथैतयोः पथोः इत्यस्य च साधनार्थत्वात् ।।14।। न च दुःखसहस्थायित्वादन्धेतमस्यपि सुखम् । ईशस्याप्रियत्वेनैव कारणाभावात् ।।15।। न च धूमादिदेवतासहावस्थानात् कर्मिणोपि तत्पदप्राप्तिः । तन्निमित्तविद्याख्यकारणाभावात् ।।16।। न च तैस्तैः सहावस्थानादतिचिरत्वम् । "वत्सरात् पूर्वमेवतु' इति क्लृप्तकाƒादधिकावस्थाने कारणाभावात् ।।17।। न च व्रीह्यादिजीवैः सहावस्थानात् दुःखप्राप्तिः । शब्दविहितत्वेन पापाख्यकारणाभावात् ।।18।। ईशक्ƒृत्प्यैव पितरं प्रविश्यायाति न च वैयर्थ्य पितृशरीरगमने मातरम् इतीशक्लृप्तत्ववचनात् ।।19।। न च पितुः सकाशादन्यतो वौदर्यगर्भस्थशरीरमेव प्रवेष्टुमुपपत्तेर्योनिप्रवेशाभाव इति वाच्यम् । "योनिद्वारेण देहं च प्राप्नोति प्रायशो नरः' इति वचनात् सामान्यतो गत्यन्तराभावात् । विशेषकारणादेव विशेषाज्जनिरिष्यते । सामान्यजननं चैव नृणां सामान्यहेतुतः ।। इति वचनाच्च ।।20।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य प्रथमः पादः ।। द्वितीयः पादः पश्चाददृष्टेः स्वप्नविषयस्यासत्त्वं न वाच्यम् । अशक्यकरणशक्तिमत्त्वादीश्वरस्य संस्कारेण सृष्ट्वा पुनः संस्कारमात्रतामापाद्य तस्यापि तिरोधानोपपत्तेः। जाग्रत्वप्रतीतिमात्रस्य भ्रमत्वात् ।।1।। न चाविज्ञानमात्रेण स्वप्नप्रतीत्या ज्ञानशक्त्यैव स्वप्नतिरोधानं नेशेनेति वाच्यम् । बोधे जीवस्यास्वातन्त्र्यात् । ज्ञानाज्ञानयोस्तदन्यत्वे जडत्वात् कैमुत्येनास्वातन्त्र्यात् । तत्स्वरूपत्वे तेनैव व्याख्यातत्वात् । उभयात्मकत्वे दोषद्वयापातात् । अनुभयत्वस्य व्याहतेः । तावन्मात्रनिमित्तत्वे मानाभावात् । सर्वस्येशहेतुत्वे मानाच्च ।।2।। न च काƒापेक्षयैव जागरितम् । अचेतनत्वादेव काƒस्य । चेतनान्तरस्याप्यस्वातन्त्र्यात् ।।3।। न च परमात्मनोन्यत्राभावस्थाने दुःखित्वप्राप्तेर्नाडीषु सुप्तिर्न भवति उभयस्वीकारोपपत्तौ मानस्य क्ƒृप्तकारणमित्यनवस्थितिदोषादतिप्रसङ्गात् ।।4।। न च प्रबोधस्य पृथगपि कारणदृष्टेः क्वचित् तदेव । न ऋते त्वत्क्रियते इति श्रुतेस्तत्रापि ईशकृतत्वे सम्यङ्मानात् ।।5।। न च राजादीनां पृथग्दर्शनादीशान्तरकल्पना । देशकाƒविशेषेपि स्वप्नादीनां स एव हि । तिरस्कर्ता च कर्ता च न खण्डेशः स राजवत् ।। इति श्रुतिमानात् ।। 6।। न च मोहे ब्रह्मप्राप्तिरेव पृथगवस्थात्वादिति वाच्यम् । परिशेषमानादर्धप्राप्तित्वावगमात् ।।7।। न च स्थानभेदाद्विष्णोरपि भेदः । अयमेव सः । नेह नानास्ति किञ्चन इत्यादि श्रुतिबƒात् स्थानानां भेदस्तस्याभेद इति व्यवस्थोपपत्तेः ।।8।। न च रूपवत्त्वारूपवत्त्ववचनयोः विरोधादप्रामाण्यम् । अप्राकृतरूपवत्त्वमिति व्यवस्थोपपत्तेः ।।9।। न च परमात्मना चेतनत्वन्यायसाम्येन जीवस्याप्यभेदः । अल्पगुणत्वादिविरोधात् ।।10।। न च सादृश्यस्य सत्त्वात् साधनं विनैव जीवस्य तादृक्त्वव्यक्तिः । अनादितः संसारस्यानिवृत्तत्वेन भावात् ।।11।। न च मुक्तत्वादिगुणसाम्यात् ब्रह्मादीनां भक्त्यादिगुणसाम्यम् । यथा यथाधिकारो विशिष्यते एवं ज्ञानं भक्तिर्बƒं च विशिष्यते । मुक्तावानन्द एते च गुणा विशिष्यन्ते अत आहुबर्‌रह्मणे मुक्ता बिƒं हरन्ति इत्यादिविशेषदृष्टेः ।।12।। न च संहारकर्तुरसंहारादन्यरक्षाया अयोगः । स सृजति स पाƒयति स विनाशयति इत्यादि विशेषवाक्यात् । अन्नदानाद्युपपत्तेश्च ।।13।। न चाव्यक्तस्वभावस्य दर्शने तर्कबाधः । अनन्तशक्तित्वात् विष्णोस्तच्छक्त्या अव्यक्तस्यापि दर्शनोपपत्तेः ।।14।। न च गुणानां गुणिस्वरूपत्वं विरुद्धम् । काƒादिदृष्टान्तात् ।।15।। न च ब्रह्मानन्दादीनामन्यथात्वात् अतच्छब्दत्वं तच्छब्दत्वे ƒोकोपमत्वं चेति विƒोमता । अƒौकिकास्तस्य शब्दास्तथार्था अƒौकिको ह्येष विष्णुः परत्वात् । तथापि शब्दा ƒौकिका अप्यमुष्मिन् प्रवर्तमाना अधिकार्थान् वदन्ति ।। इत्यादि श्रुतिभ्योƒौकिकत्वावगमात् ।।16।। न च ब्रह्माद्यानन्दवैचित्र्ये बिम्बभूतविष्ण्वानन्दवैचित्र्यम् । आदित्यादिवदाधिक्यात् । न हि सूर्यकान्तप्रतिबिम्बस्याग्निजनकत्वशक्तिर्न जƒगतस्येत्येतावता सूर्यवैचित्र्यात् । आधिक्यं हि तत्र निमित्तम् । सूर्यचन्द्रादिप्रतिबिम्बं विनान्यत्र तथा विशेषादृष्टेः ।। 17।। न च नानाभावात् विष्णोश्चित्तप्रतिबिम्बरूपता । आधिक्यादेव । प्रतिबिम्बे हि दोषाश्च प्रतीयन्ते । अतो हि श्रुतिः प्रतिषेधति नेदं यदिदमुपासते इति ।। 18।। न च नानावतारकौतुकदर्शनात् विष्णोः क्वचिद्देशकाƒान्तरे कौतुकादेव सृष्ट्यादिकमकुर्वन् अन्यमेव सामस्त्येन नियोजयति । सर्वत्र सर्वमेतस्मात् इति क्रीडायामपि स्वातन्त्र्यात् । स्वातन्त्र्यात् क्रीडते विष्णुर्न च स्वातन्त्र्यमन्यगम् । करोति क्वपि नियता क्रीडा सृष्ट्यादिगास्य च ।। नियतक्रीडनादेव कर्ता नान्योस्ति कस्यचित् । अस्वतन्त्रो हि चƒति चƒचित्तादशक्तितः ।। स्वतन्त्रः पूर्णशक्तिः सन् कुतोसौ नियतिं त्यजेत् ।। इति श्रुतेश्च ।।19।। न च कर्मान्वयव्यतिरेकात् फƒस्येश्वरः फƒदातेति प्रƒोभमात्रम् । तस्यैव स्वातन्त्र्यात् । कर्माण्यनन्तानि यथेष्टमीशः सम्पाद्य तेषां फƒमिच्छयैव । क्वचिद्ददाति क्व च नो ददाति न ह्यानन्त्यात् कर्मणां भोगनाशः ।। स्वातन्त्र्यं चेत् कर्मणां सर्वभोगः स्यान्न ह्येवं क्वापि तत् केनचित् स्यात् । अतोपि स स्वेच्छया किञ्चिदेव फƒं कुर्यात् विफƒं प्रायशश्च ।। क्वचिज्ज्ञानं जनयन् भस्म कुर्यात् स्वेच्छावृत्तिस्तस्य विष्णोः सदैव ।। इति ब्रह्माण्डे । स्वतन्त्रः ईश एवैकस्तद्वशं कर्म सर्वदा । अत ईशत्वमीशस्य न हीशोन्यः कथञ्चन ।। इति श्रुतिः ।। अतो प्रƒोभकल्पने श्रुतहानिरश्रुतकल्पना चेति हरिरेव फƒप्रदः ।।20।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य द्वितीयः पादः ।। तृतीयः पादः न च प्रतिशाखमुच्यमानानामर्थानां पृथकत्वात् तत्तच्छाखिभिरेव तत्र तत्रोक्तं ज्ञेयमिति नियमः । "नानावेदैरितिहासैः पुराणैः सुज्ञेय एको भगवान् युक्तिभिश्च' इति श्रुतेः सुष्टु ज्ञेयत्वात् विष्णोः ।।1।। न चाशक्यतया कस्यापि सर्वगुणोपसंहारो नास्ति । "सर्वे गुणाः सर्वदैव ह्युपास्यास्तेनैव विद्वान् विधिकृन्नान्यथा स्यात्' इति श्रुतेर्विहितक्रियाƒोपप्रसङ्गात् ।।2।। केषाञ्चित् सर्वगुणोपसंहारस्य कर्तव्यत्वे सर्वेषामपि तथा स्यात् अनेन नोपसंहर्तव्या अनेनोपसंहर्तव्या इत्यनिर्णीतेरिति न मन्तव्यम् । यस्य यावद्गुणाः स्पष्टं प्रतिभासन्त्युपासते । युगपत् स्वभुजौ यद्वद् ध्यायेत् तावत एव सः ।। युगपद्ब्रह्मणः सर्वे भासन्ते हि गुणा हरेः । तदन्येषां यथायोग्यं स्वमाहात्म्यानुसारतः ।। इति श्रुतेर्युगपद्गुणप्रतीत्यादिमाहात्म्यान्निर्णयोपपत्तेः ।।3।। न च फƒानिर्णीतिः । माहात्म्येनैवान्यत् फƒं महतामिति निर्णयोपपत्तेः ।।4।। आनन्दादीनां केषाञ्चित् समुच्चये प्राप्ते सर्वगुणसमुच्चयः सर्वेषां स्यादिति न मन्तव्यम् । अल्पशक्तित्वात् तेषां पुंसाम् ।।5।। प्रियशिरस्त्वादीनामानन्दादिविशेषत्वेनैव दर्शनात् तेषामपि सर्वोपसंहार्यत्वमिति न मन्तव्यम् । यथायोग्यान् गुणपूगानुपास्य फƒं भवेन्मुक्तिगं नान्यथा स्यात् । नित्यैकाग्र्यव्यङ्ग्यताहेतुतश्च साक्षाद्दृशिर्नो तद्विशेषैः स्मृतैश्च ।। इति श्रुतेः स्वयोग्यगुणैरेव फƒभावात् ।।6।। तर्हि ब्रह्मणोन्येषां देवादीनामपि बहुगुणोपासनया कार्यं नास्ति मध्ये नियमासिद्धेरिति न मन्तव्यम् । तेषां भाव्युत्कर्षं ज्ञात्वा तदभिज्ञस्य ब्रह्मण एव गुणनियमोपदेशोपपत्तेः । यो यो भावो देवतानां विमुक्तौ तत्तत् प्राप्तौ सुगुणानीशितुश्च । ब्रह्मा दिशत्यथ तांस्ते विचिन्त्य तत्तद्भावं प्राप्नुवन्त्यात्मशक्त्या ।। इति श्रुतेः ।।7।। न च नानास्थानेषूक्तगुणानामनुपासनार्थता । विप्रकीर्णगुणान् पिण्डीकृत्योपासितुस्तत्सदृशफƒप्राप्तेस्तथा ध्यानार्थमेव गुणानामुक्तिरित्युपपत्तिः ।।8।। न चाश्वापरोक्ष्यायानन्दादीनामपि ƒोपेनात्मेत्येतावता पूर्यते । आत्मशब्दार्थविशेषत्वादानन्दादीनाम् ।।9।। न चात्मशब्दो विभ्रमकरः । गुणाधिकानामधिकारिणां भगवद्गुणानधिकान् प्रकाशयतीत्यवधारणोपपत्तेः ।।10।। अƒौकिकगुणानामप्रतीतेर्ƒौकिकगुणाध्याने तदपाकृतिरेव भवतीति न मन्तव्यम् । ƒौकिकविƒक्षणा अत्युत्तमा इति ध्यानस्यैव प्राधान्यात् ।।11।। ब्रह्मणो ब्रह्माण्याश्च स्थानैक्यं गुणतारतम्यं च यथागुणोपासनं मुक्तावाधिक्यं न भवतीत्यत्र िƒङ्गम् । समविषमोपासनायुक्तेरिति न मन्तव्यम् । यथाशक्ति स्मृतान् धात्रा गुणान् विष्णोः सरस्वती । स्मरेत् त्रैविक्रमाद्यांस्तु नित्यविक्रान्तिपूर्वकैः ।। कदाचिल्लोपेयेद्देवी स्थानैक्यं न गुणैस्ततः । साम्यं तयोर्यथाविष्णोर्गुणोपासा फƒं भवेत् ।। इत्यध्यात्मवचनाद्यथाशक्ति क्रिया देव्याः ।।12।। न चात्मशब्देनास्य पुरुषस्यैतावन्तो गुणा उच्यन्त इति व्यवस्थित्यभावः । यस्य यावन्तोर्था युगपद् ध्यातुं शक्यन्ते तस्य तावन्त इति सन्धेः ।।13।। न च मुमुक्षव इत्यविशेषाद् भरणस्य द्युतेश्च सर्वेषामपेक्षितत्वाच्च सम्भृतिद्युव्याप्तौ अपि सामान्ये । सत्यो ज्ञानं परमानन्दरूपं आत्मेत्येवं नित्यदोपासनं स्यात् । नान्यत् किञ्चित् समुपासीत धीरः सर्वैर्गुणैर्देवगणा उपासते ।। गुण्याकारस्मृतेरेव द्युतिमात्रं प्रतीयते । न व्याप्तिर्जगदस्मृत्या नानाशक्तिर्यतो मता ।। देवानां युगपदज्ज्ञानं मानुषाणां तथा न तु । पर्यायेणापि सत्याः स्युर्नैवान्यथा कथञ्चन ।। इत्यादिप्रमाणबƒात् ।।14।। क्वचिद् बहुगुणाः क्वचिदल्पगुणाः श्रुतिष्वेवोच्यन्ते इत्युपसंहारस्याप्रयोजनतेति न वाच्यम् । गुणा सर्वे ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः । इति श्रुतेः । सर्वगुणोपासकस्याप्यधिकारिणो भावादेकत्रापृथक्सर्वगुणानुक्तेः बƒादुपसंहारानतेः ।।15।। न च मुक्तावुपासनभावे फƒादिकमपि स्यादित्यतिप्रसङ्गः । उपासनायाः संस्काराख्यकारणस्य सत्त्वात् । न हीयते यत्र गत्वा यत्र गत्वा न वर्धते इत्यवृद्धिप्रमाणभावाच्च ।।16।। न च कर्मकरणशक्तेरप्यदूरत्वात् तत्संश्रयनियमः । उपासनाख्यकार्ये नित्यकृतिसंस्कारो न तथा कर्मणीति कार्यवैशेष्यात् ।।17।। न चायोग्यताख्यविशिष्टकारणाज्ज्ञानिष्वपि केषाञ्चिन्मोक्षो न भवतीति नियमः । ज्ञानिनां मोक्षं ददात्येवेश्वरः स्वभावात् । अयोग्यानां ज्ञानस्यैवानुपपत्तेः ।।18।। न च प्रयत्नानुसारिणो मुक्तावाधिकारिका आनन्दादयः । अधिकारानुसारित्वात् प्रयत्नस्य । कथञ्चिदधिकयत्ने तत्साधनादिवस्तूनां दूषणप्राप्तेः । स्वाधिकाराधिको यत्नः प्रायशो नोपपद्यते । कथञ्चिदधिके यत्ने दोषः कश्चित् समापतेत् ।। इति वचनाच्च ।।19।। न चैकस्मादेको विशिष्टो दृष्ट एवेति प्राणाद् विशिष्टजीवाभावे दृष्टवैरूप्यमिति दोषः । यः सर्वमवजानीयादृते देवं नारायणं देवीं च परमां श्रियम् । स प्राणानवरुद्ध्येमं मन्त्रमावर्तयीत । आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः । घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ।। इति । "स ह्येषां भूतानां वरिष्ठो न ह्येतस्मात् कश्चनोपरि विना देवं नारायणं देवीं च परमां श्रियम्' इति प्रतिक्रियाविधानादिविरोधात् ।।20।। "अस्ति भगवः प्राणाद्भूय' इति प्रश्नाद्यभावात् प्राणस्यैवोन्नतिप्रतीतेर्न विष्णोरपि ततः परत्वमिति न मन्तव्यम् । एष तु वा अतिवदति इति विशेषणात् प्रश्नप्रतिवचनप्रतिसन्धानोपपत्तेः ।।21।। न च सत्यादीनाभेदानुक्तेरन्यत्वम् । "सत्यं पूर्णं विज्ञानं पूर्णं कृतिः पूर्णा निष्ठा पूर्णा श्रद्धा पूर्णा मति पूर्णा सुखं पूर्णं भूमा पूर्णोहं पूर्ण आत्मा पूर्णो नात्र किञ्चिदूनं पूर्णमेवाधस्तात् पूर्णमुपरिष्ठात् पूर्णं मध्यतः पूर्णं सर्वतः । तदेष श्ƒोको भवति । पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।' इति श्रुतेः सर्वेषामनूनत्वात् । "सत्याद्या अहमात्मान्ता यद्गुणाः समुदीरिताः । तस्मै नमो भगवते यस्मादेव विमुच्यते ।।' इति वचनाच्च ।।22।। न च श्रियोप्रयत्नत्वादनुपासनं संसारो वा । नित्यं भगवदुपस्थितेरतिप्रियत्वात् संस्कारपाटवान्नित्योपासोपपत्तेश्च ।।23।। न च बन्धदाढ्ये श्रवणादीनामफƒता । अन्यथोपासां विनैव श्रवणादिज्ञानमात्रेण मुक्तिरिति दोषः । श्रवणादित्रयोत्पन्नदृष्ट्यैव स्वेच्छया हरिः । प्रसन्नो मुक्तिदो नित्यमन्यथा न कथञ्चन ।। इतीश्वरेच्छानियतिश्रुतेः ।।24।। न च गुर्वधीनत्वे ज्ञानमोक्षयोर्ज्ञानिनोपि कदाचित् गुरुकोपाज्ज्ञानपराभावेनामुक्तिप्रसङ्गान्न गुर्वधीनत्वमिति । ज्ञानिनो गुरुशापेपि नामुक्तिः संसृतेः क्वचित् । आनन्दह्रासदोषेण सैव मुक्तिर्विदुष्यति ।। इति वचनान्मुक्तिदूषणेनैव गुरुशापादेः कृतार्थत्वात् । ज्ञानिनो ब्रह्मवस्तुवैभवेन मुक्तिः स्यादिति गुरोर्वरेण वा मुक्त्युपपत्तेः ।।25।। शिष्यस्यापि पुरुषत्वसाम्यात् धारणादेस्तत्प्रयत्नस्य न दौर्बल्यमिति न मन्तव्यम् । "गुरुप्रसादो बƒवान्' इत्यादिविशेषोक्तेः ।।26।। न चोत्तमगुरुस्वीकारार्थत्वेन प्राप्तसन्त्यागनिमित्तदोषः । तत्र दोषे मानाभावात् ।।27।। न च विद्या कर्म वा संसारनिवृत्तिकारणमिति कारणानिर्णयः । "नान्यः पन्था अयनाय विद्यते' इत्यवधारणात् विद्यावचनस्य प्राधान्यात् ।।28।। न च विद्यावचनस्य प्राधान्यं भ्रमः । "प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः' इति भगवतस्तस्मिन्नेवाधिकप्रीतिवचनात् । "यमेवैष वृणुते तेन ƒभ्यः' इति तत्प्रीतेरेव मोक्षवचनाच्च ।।29।। न च कस्यचिद्विशेषज्ञानोपपत्तेर्भक्त्यादिकं विना मुक्तिः । "भक्त्यैवैनं जानाति भक्त्यैवैनं पश्यति भक्त्यैव बन्धात् विमुच्यते भक्त्यैवानन्दीभवति' "यमेवैष वृणुते तेन ƒभ्यः' "भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान् हरिः' इत्याद्यागमात् ।।30।। न च "दृष्ट्वैव तं मुच्यते नापरेण' "यावान् यश्चास्मि तत्त्वतः' "ततो मां तत्त्वतो ज्ञात्वा' इत्यादि सामान्याƒापमात्रेण दर्शनस्याविशेषः । "यथायोग्यमेवैष आत्मानं दर्शयति यथाधिकारं देवेभ्योतो ब्रह्मैवैनमभिपश्यत्यथात्मैवात्मानं अभिपश्यति सुस्थिरो ह्येष नियमः' इति दर्शनविशेषनियमस्य सुस्थिरत्ववचनात् । यावान्यश्चास्मीति ब्रह्मण एव ज्ञानोपपत्तेः । "यावान्' इत्यत्रापि सामान्यविशेषज्ञानोपपत्तेश्च ।।31।। न च भगवतः सर्वत्र गुणसाम्याद्यस्य कस्यापि रूपस्य दर्शनात् सर्वेषां मुक्तिः । "समोपि भगवान् स्वबिम्बदर्शन एवैनं मोचयति । यथा समेष्वपि कर्मसु स्वकृतमेवैनं भोजयति ।।' इति श्रुत्युक्तस्वकृतप्राप्तिदृष्टान्तात् ।।32।। भक्तिरेवैनमिति भक्तेरेव पृथङ्मोचकत्वदर्शनान्नेशकृत्यमिति न मन्तव्यम् । अनादितो गुणाः सन्तो भक्त्याद्या न ह्यमूमुचन् । जीवं तद्गुणसुव्यक्तिं कृत्वैनं मोचयेद्धरिः ।। कञ्चिन्न मोचयेद्वासौ स्वातन्त्र्यं तस्य तेन हि । भक्तिवाक्करणत्वेन सावकाशेशवागथ ।। भक्त्यैनं मोचयेद् विष्णुरिति मानत्वमेष्यति ।। इति ब्रह्मतर्कवचनादनादिगुणविस्तरे सत्यप्यव्यक्त्यादिना तदिच्छां विना मोक्षाप्राप्तेः ।।33।। न चांशिमार्गस्यांशेनागम्यत्वात् तयोर्भेदः । साधनोत्तमस्यादृष्टस्यांशिकृतस्यांशेन भुज्यमानत्वात् । अन्यथादृष्टं विना शरीराद्यनुपपत्तेः ।।34।। न च गुणान्तरसन्धानस्य क्वचित् दर्शनमात्रेण समाधिकाङ्गदेवतान्तरगुणा अप्यङ्गदेवतान्तर उपसंहर्तव्याः । नानागुणत्वेन तेषां श्रुतिषुदृष्टेः । अनिषिद्धगुणानां वाक्यान्वयन्यायेनोपसंहारान्न शाखास्वित्यादिविशेषः । उत्तमेष्वधमगुणापेक्षया मन्त्रादिवद्वेति ।।35।। न च भूमगुणस्योपासकं प्रति विशेषाभावेपि तत्तदिष्टगुणानुसारेण फƒोपपत्तिरित्यविशेषः । "भूमैव देवः परमो ह्युपास्यो नैवाभूमा फƒमेषां विधत्ते' इत्यादिशिष्टेः ।।36।। न च भूमगुण उपासकानामेकप्रकारेणैव प्रतीयत इत्यङ्गीकार्यम् । विशेषस्य कल्पनोपपत्तेरिति न मन्तव्यम् । "यावानेवाधिकारेषु विशेषोनून एव हि । ततो भूमत्वदृष्टौ च ब्रह्मादीनां पृथक् पृथक् ।।' इति विशेषस्यानूनत्ववचनात् ।।37।। न च शुद्धमोक्षसाधनवैरूप्यान्मोक्षसाधनत्वेनोपदिष्टं विना विष्णोरेवेवोपासनान्तरस्याकर्तव्यता । अविघ्नतासाधनत्वात् ।।38।। न च काम्यसाधनानामपि गुणानामङ्गत्वादेवोपसंहर्तव्यतानियमः । अनुपसंहारे विरोधाभावात् । काम्यानामनियताङ्गत्वाच्च । "अर्थादिधर्मसिद्धौ हि न नियत्याङ्गमिष्यते' इति ब्रह्मतर्के ।।39।। न च देवादीनामिति तत्रैव विशेषवचनाभावात् ब्रह्मा शिरसि ƒƒाटे रुद्र इत्यादीनां नावश्योपास्यता । "देवादीनामेव ध्यायेदङ्गदेवताः परस्य विशिष्टा हि गुणा मुक्तौ देवानां भवन्ति ते हि तादृशास्ते हि हरेरनुरूपाः' इति श्रुतेर्गुणवैशेष्यात् ।।40।। न च क्रियात्वादुपासनाया अग्निष्टोमादिवत् प्रतिशाखं वक्तव्यता । उपासना यजनं चेति साम्यं तत्तद्विशेषान् संहरेत् सर्वतश्च । तथाकर्तॄणां तत्फƒानां विशेषाद् व्यर्था हि शाखा अन्यथैवं च सार्थाः ।। इत्युपासनाविशेषाणामधिकारिविशेषाणां चागमेवगमात् ।।41।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य तृतीयः पादः ।। चतुर्थः पादः न च ज्ञानिन औदार्यान्मोक्षादन्यफƒेच्छाया एवासम्भवात् तदुक्तिः प्रशंसामात्रमिति वाच्यम् । प्रायशो न सम्भवत्येव । कस्यचित् सौभरिवत् सा भवति चेज्ज्ञानेनैवाशेषमभीप्सितं भवतीति व्यवस्थोपपत्तेः ।।1।। न चाधिकारे समेपि तेषामेवोच्चावचशक्तियोगात् फƒभेदोपपत्तेरधिकारविशेषकल्पनं व्यर्थम् । भक्त्याद्यधिकारतारतम्येन शास्त्रात् फƒप्राप्तेः सर्वेषामविशेषम् । दृश्यमानत्वाच्च भक्त्याद्यधिकारतारतम्यस्य । उच्चवचशक्तेरपि तन्निबन्धनत्वात् ।।2।। न च ज्ञानिनामात्मस्वरूपदार्ढ्यात् सत्प्रवृत्तिविपरीतप्रवृत्योरविशेषः । एतावतोधिका नास्ति प्राप्तिरित्यन्ततः स्थिता । या स्थितिस्तां समाप्नोति यथाशक्ति प्रयत्नतः ।। विपरीतप्रवृत्तेस्तु तस्य ह्रासोधिकं भवेत् ।। इति वचनात् स्थितिविशेषोपपत्तेः ।।4-5।। न च सर्वजीवानामेकप्रकार एव निजस्वभावश्चैतन्यमिति फƒेप्यविशेषः । निषेधसामान्यविधिक्रियाणां विभक्तत्वात् । "नादेवो देवपदमन्विच्छेदन्विच्छन् यात्यधरं तमः । न देवः स्वीयं पदमन्विच्छन् विदुष्यति । तदेव ह्यस्य स्वम्' इति निषेधविभागः । "स्थिरं ज्ञानं स्थिरो हरावभिषङ्गः स्थिरमोजो बƒं विराग एतद्धि सामान्यं देवानाम् । अथान्येषामस्थिराण्येवेतानि सर्वाण्यथापि यथायोगं विनेयानि' इति सामान्यविभागः । "ज्ञानदानमेव देवानां विहितं तप एवर्षीणामाचार एव मनुष्याणां तदविरोधेनान्यानि करणीयानि' इति विधिविभागः । चरन्ति देवा विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्याः इति क्रियाविभागः ।।6।। न च स्वातन्त्र्याद् देवानामेव ज्ञानादिफƒं, न चकिञ्चिदन्येषामिति वाच्यम् । त्वरयैव मनुष्याणां सिद्धिरत्वरयैव तु । देवानां तत्प्रसादेन मुक्त्या एव सतां नृणाम् ।। इति मानुषमुक्त्यर्थमेव देवानामत्वरया सिद्धिश्रुतेः ।।7।। न च गृहस्थानामशेषकर्मविशेषयोग्यत्वादाधिक्यं मुक्तौ । त्वरयैव गृहिणः साधयन्ति मुक्तिमत्वरयैव यतयस्तेभ्यश्चात्वरया देवास्तेषु च ब्रह्मा । तदेष श्ƒोकः । शतं परानभिपश्यैव देवं ब्रह्माचरद्दुश्चरं यत्तपोग्र्यम् । विहाय रागं मनसश्चोपरिष्ठः ततोभवत् परमेष्ठी स मुक्तौ ।। इति । यो हि त्वरया साधयेत् स मन्दं सुखमाप्नुयात् । यो ह्यत्वरया स महत् ।। इति श्रुतेर्गृहिस्थो यतीनां तेभ्यो देवानामत्वरया सिद्धेः । बहुकाƒसाधनात् बहुकर्माधिकारमात्रस्य दुर्बƒत्वात् ।।8।। न चाविष्कारेण कथनादशेषतोपि योग्या ज्ञानिनो भवन्तीत्यास्थानचत्वरादिषु स्थित्वैव प्रकथनीयम् । न ह्येवं त्वरमाणे सिद्धिभर्वति । अयोग्यानामपि ग्रहणप्रसङ्गात् । तस्मात् विचार्य योग्यानामेवात्वरयैव कथयित्वा सिद्धिर्भवति । "त्यक्त्वा त्वरां ब्रह्मविद्यां वदेत जनाय योग्याय सदैव विद्वान्' इति श्रुतेः "मा न स्तेनेभ्यः' इत्यादेश्च ।।9।। न च विरोधाभावात् साधनानुष्ठानजन्मन्येवापरोक्षज्ञानं मुक्तिश्चेति नियमः । प्रतिबन्धे सति तन्निरासेनात्वरयैव सिद्ध्युपपत्तेः । "यद्यारब्धं कर्म निबन्धकं स्यात् प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य' इत्यादिश्रुतेः । "अनेकजन्मसंसिद्धस्ततो याति परां गतिम्' इति भगवद्वचनम् ।।10-11।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे तृतीयाध्यायस्य चतुर्थः पादः ।। अथ चतुर्थोध्यायः ।। प्रथमः पादः न च श्रवणाद्यनवृत्त्यापरोक्षज्ञानोदये सर्वेषां सुशक्यत्वमिति गुणः । महाफƒत्वात् सर्वेषामशक्यताया एवोपपन्नत्वात् । अन्यथा सर्वसुशक्यस्यैव साधनतया सर्वेषां मोक्षापत्तेः ।।1।। न च शश्वदतिप्रसिद्धत्वात् आत्मशब्दोदितं स्वामित्वं न नित्यशः उपास्यम् । अन्येभ्योधिकफƒत्वेन सविशेषत्वादात्मत्वस्य ।।2।। तर्हि विशेषवत्वादेव प्रतीकमपीश्वर इत्युपास्यमिति नास्ति । यत्र सन्धिरुपपत्तिर्विद्यते तस्यैव ग्राह्यत्वात् । अन्यस्येशत्वग्रहणस्य मिथ्याज्ञानत्वादेवानुपपत्तेः ।।3।। न च प्रतिदिनं विविधगुणन्यासेन भगवत्प्रीत्युपपत्तेर्न ब्रह्मतादृष्टिनियम इति वाच्यम् । अशेषगुणान्तर्भावेन तस्यैवाधिकसाधनत्वात् ।।4।। न च विविधस्थानेष्वादित्यादीनां चरणाद्विष्ण्वङ्गेष्वादित्यादिमतिनियमो नास्तीति वाच्यम् । तत्कृतावेव कृत्यस्याप्त्तवादादित्यादीनाम् ।।5।। न च ज्ञानस्य सम्यक्तद्विषयत्वमात्रेण पूर्तेरासनादिना न कार्यमिति वाच्यम् । आसनादिना निश्चƒत्वादिविशेषकार्योपपत्तेः ।।6।। न चान्यस्यापि साधनस्य कर्तुं शक्यत्वान्न यावन्मुक्ति ध्यानं कार्यमिति वाच्यम् । ध्यानं विनापरोक्षज्ञानाख्यविशेषकार्यानुपपत्तेः ।।7।। न च ज्ञानोदयेशेषकर्मक्षये कृतकृत्यत्वात् तदैव मुक्तिः न चेत् कर्माक्षय इति वाच्यम् । प्रारब्धस्यैव कृतस्य यावज्ज्ञानं संस्थितेः । कर्माणि क्षपयेद्विष्णुरप्रारब्धानि विद्यया । प्रारब्धानि तु भोगेन क्षपयन् स्वगतिं नयेत् ।। इति वचनात् ।।8।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य प्रथमः पादः ।। द्वितीयः पादः न च वाक् पूर्वरूपं मन उत्तररूपं "मनः पूर्वरूपं वागुत्तररूपम्' इत्युक्तेः व्यामिश्रत्वादनिर्णीतिरेव । "वाक् पूर्वरूपं मन उत्तररूपं' इति वाचः पूर्ववर्णदेवतात्वनिर्देशमात्रेण मनःपूर्वरूपं इत्यनेन साम्यम् । "मनसा वा अग्रे सङ्कल्पयत्यथ वाचा व्याहरति' इति युक्तितो विशेषो मनःपूर्वकत्वस्यैव श्रुत इति प्राधान्यं मनस एव हि ज्ञायते । सृष्टौ च विƒये चैव सदा पूर्वप्रवर्तने । नियन्तृत्वे च वचसो मनोधीशं शिवो हि तत् ।। इति श्रुतेश्च ।।1।। न च मनःपूर्वकत्वनियमादशेषदृष्टादृष्टव्यापाराणां तस्य प्राणादनूनता इन्द्रियस्थैः स्वरूपैस्तु ज्ञानानि जनयत्यसौ । मनस्स्थेन विशेषेण कार्मै कर्मकृदेव च ।। पृथक्स्थितेन रूपेण जीवं धारयति प्रभुः । जीवस्थितेन रूपेण वेदयत्यहमित्यपि ।। प्राण एको वशी नित्यं बाह्यान्तःकरणेश्वरः । तान्येतान्यवशान्येव तथापि कृपयैव सः ।। पृथक्शक्तोपि तद्गैस्तु स्वरूपैस्तद्गकार्यकृत् । तस्येशो भगवान् विष्णुरेवमेष यथान्यगः ।। इत्यादिश्रुतेः प्राणस्यैवाढ्यतावगमात् ।।2।। सोध्यक्षे इत्यस्याप्येवमेवाशङ्का परिहारश्च । श्रुतिबाहुल्यमेवाशङ्कायां परिहारे च विशेषहेतुः ।।3।। न च भूतानामुत्पत्तिक्रमवैपरीत्येन ƒयोक्तेर्मुक्तिƒययोर्विशेषभावाच्चैकस्मिन्नेव भूते सर्वेषां ƒयोर्थतः क्ƒृप्तः इति वाच्यम् । तत्तद्भूतोद्भवत्वात् तत्तद्देवानां तत्समानानां च विशेषवचनाभावे स्वसमानƒयस्थान एव ƒयोपपत्तेः । विशेषश्रुतेश्च ।।4-5।। न च प्रकृतेः संसाराभावादिनेशेनाप्यन्यथाकर्तुमशक्यत्वेन सुदृढत्वात् सर्वसाम्यमेवेश्वरेण, न चेत् संसारित्वमिति युक्तम् । ईश्वरस्य महामहिमत्वात् । नित्यमसंसारित्वस्य नित्यं तदनुग्रहेणैवोपपत्तेः । सदानित्यतयानित्यं नित्यं नित्यात्मना यतः । नित्ययैव स्वशक्त्यैशो नियामयति नित्यदा ।। द्रव्यं कर्म च काƒश्च स्वभावश्चेतना धृतिः । प्रकृतिः पुरुषश्चैव न सन्ति यदुपेक्षया ।। इत्यादिश्रुतेश्च ।।6।। न चान्यदेवादीनां प्राणाधीनत्वात् तत्प्राप्तिनियमात् परप्राप्तिर्नास्त्येव । प्राणं प्राप्य परं देवास्तदन्ये चैव तद्गताः । प्राप्नुवन्ति परं देवं वसन्ति च यथासुखम् ।। इति विशेषश्रुतेः ।।7।। न च सत्यसङ्कल्पत्वादेरीश्वरसङ्कल्पाद्यनुसारित्वनियमे संसारसमानधर्मत्वं मुक्तेरिति वाच्यम् । कृतार्थत्वेन विशेषोपपत्तेः । अपूर्णतादिभावो वा दुःखं वा नास्ति किञ्चन । मुक्तस्य पारतन्त्र्येपि तारतम्येप्यतः सुखी ।। इति च श्रुतिः ।।8।। न च प्रारब्धकर्मशेषत्वात् उत्क्रान्तावविशेषो ज्ञानिनः । ज्ञानोदयानन्तरं सर्वदा ज्ञानफƒस्यानुवृत्तेः । प्रारब्धकर्मशेषस्तु विरजातरणावधिः । स्वोदयात् फƒदं ज्ञानमादेहं कर्म वारवेः ।। तथापि प्रकृतेर्बन्धो ब्रह्मणा सह भिद्यते ।। इति हि श्रुतिः । "शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुते । स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तः स सम्प्राप्नोति विरजां नदीं तत्सुकृतदुष्कृते विधूनुते' "ते ब्रह्मƒोके तु परान्तकाƒे परामृतात् परिमुच्यन्ति सर्वे' इति च । "अन्यथाभावनियमोनृतता कार्यकारणे' इति च ।।9।। न च कृष्यादिƒौकिकसाधनस्य फƒस्मरणानपेक्षत्वात् स्वर्गमोक्षयोरपि तथात्वमिति वाच्यम् । "क्रियानुवृत्तिर्ƒौकिके साधने तु मनोनुवृत्तिर्वैदिके साधने स्यात् । भवेत् फƒं सर्वथेत्येव तस्मात् स्मरेत् सदा निश्चितत्वेन विद्वान् ।।' इति श्रुतेस्तदनुसार्यनुवृत्तेः ƒौकिकवैदिकयोः साम्यात् । अतोत्र फƒानुस्मरणं ƒवनादिकृष्यनुवृत्तिवद् द्रष्टव्यम् । वचनप्रामाण्यात् ।।10।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य द्वितीयः पादः ।। तृतीयः पादः न च तत्र तत्र मार्गस्यान्यथोक्तेरधिकारिभेदेन पृथङ्मार्गसुक्रमोपपत्तिरिति वाच्यम् । "सर्वे वा एत उत्क्रामन्ति तेर्चिषमेवाभियन्ति ततो वायुं ततोहः पूर्वपक्षमित्येष उ एव ब्रह्मपथः । द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च' इति विशेषश्रुतितो ज्ञानिनामेकमार्गस्यैव प्राप्तत्वात् । "एष एव ब्रह्मपथः' इत्यवधारणविरोधोन्यथा । एजदिति वैदिकानुष्ठानवत उक्तेर्नाधोगतिविरोधः । पुनरावर्तिनो ये तु तेषां धूम्रपथो ध्रुवः । अन्येषामर्चिरादिश्च तद्भेदो मध्यसंस्थितिः ।। धूमार्चिरादिदेवेभ्यः प्राप्यानुज्ञां तु मध्यगाः । विहृत्य स्वेष्टदेशेषु तदूर्ध्वं याति वाधरम् ।। अत्यल्पानामविज्ञाताप्यनुज्ञावर्तिनां भवेत् । पुंद्वारेण स्वदृष्ट्या वा यथायोग्यं विमुच्यताम् ।। अतो न मार्गभेदोस्ति न हि मार्गोत्र सम्भवः । प्रेतत्वं चाधरो मार्गः पापजत्वात् तयोः पृथक् ।। इति स्मृतेश्च ।।1-4।। न च सोमादग्निमग्नेरिन्द्रमिति सोमादग्नेरवरस्यापि प्राप्तेः प्रधानवायोरप्यवरोन्यः प्राप्योस्त्विति वाच्यम् । उत्तमत्वात् तस्यैव ब्रह्मप्रापयितृत्वशक्तेः । "वायुरेव ब्रह्म गमयति तस्य ह्येषा शक्तिः । न ह्यन्यो ब्रह्म गमयति प्रियो ह्येनद्गमयति । न ह्यन्यः प्रियो ब्रह्मणः' इति श्रुतेः । मार्गे त्ववरस्यापि यथामार्गं पश्चात् प्राप्तिर्भवति ƒोकवत् । न हि राजानं यः कश्चित् प्रापयति क्लृप्तमतिप्रियं चातिहाय ।।5।। न च चतुर्मुखस्य प्राप्तिपर्यन्तं सन्ततत्वनियमात् बन्धस्य तावद्भगवत्प्राप्तिर्नास्तीति नियमः । यान्ति देवं परं केचित् पूर्वं केचिल्लये विभुम् । योग्यतातारतम्येन विशेषोथमपीष्यते ।। इति श्रुतेस्तथाप्राप्तत्वात् । न च परब्रह्मणः एव ब्रह्मशब्दमुख्यार्थत्वेन प्रथमप्राप्तत्वादपोहायुक्तेस्तस्यैव प्राप्तिनियमः । "यान्ति देवं परं केचित्' इति प्रमाणप्राप्तत्वादेव । न च परप्राप्तिर्यस्याभीष्टा तस्य तत्प्राप्तिरिति नियमः । क्रमानुरागी भगवान् क्रमात् पुम्भिरवाप्यते । अतः क्रमात् समृद्धे तु ज्ञाने ब्रह्मƒये नरैः ।। प्राप्यते नियमेनैव कैश्चिदेवाप्यते मृतौ ।। इति भगवतः क्रमानुरागित्वश्रुतेः । न च बहुधाश्रुतेर्यथासौकर्यं चतुर्मुखस्य परस्य वा प्राप्तिरिति वाच्यम् । श्रुत्युक्तानुवृत्तेरेव न्याय्यत्वात् । "सप्रतीकाश्चतुर्मुखमप्रतीकाः परममु हैते गच्छन्त्यागच्छन्ति च चतुर्मुखात् परमं परमाच्चतुर्मुखं यावद्विƒयमथ सह चतुर्मुखेन विमुच्यन्ते आनन्दीभवन्ति' इति हि श्रुतिः । अन्तर्भेदाधिकरणत्वात् समुदायोक्तिः ।।6।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य तृतीयः पादः ।। चतुर्थः पादः न च "एतं सेतुं तीर्त्वा' इत्यत्रातिक्रमोक्ते र्मुक्तो ब्रह्म तीत्वा गच्छतीति । तरतीति सामान्य प्रतीतेः ब्रह्म तीत्वेदं गच्छतीति विशेषानुक्तेः । "इमां घोरामशिवां नदीं तीर्त्वा ब्रह्म सम्पद्यत' इति विशेषोक्तेश्चैतं सेतुं प्रत्यन्यत् तीर्त्वेत्यन्यथोपपत्तेः ।।1।। न च कृतिमत्त्वादमुक्त एवोच्यते । "स तत्र पर्येति' इत्यादौ "स्वेन रूपेणाभिनिष्पद्यते' इति मुक्तस्य स्पष्टं प्रतिभातत्वाच्छ्रुतौ । स तत्र पर्येतीति श्रुत्यैक्यप्रतीतेश्च ।एवंभूतस्यापि प्रकरणत्वं परिकल्प्य श्रुतिबाधाङ्गीकारे सा श्रुतिरप्येवं विभज्य किं योजयितुं न शक्या इति श्रुतेरेवाभावप्रसङ्गः । सत्यं ज्ञानमित्यादावपि सत्यमित्यस्यान्यमित्यनेननान्वय इत्यादिप्रसङ्गात् ।।2।। न च परंज्योतिःशब्देनादित्यज्योतिरङ्गीकारे "स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्त' इत्यादिनैकार्थतेति प्रयोजनम् । "अथ किमुच्यते परं ज्योतिरित्यात्मैव परंज्योतिः स हि परमो द्योतते जीवाच्चाजीवाच्च तस्मादाहुः परंज्योतिरिति । तमेव जीवोभिसम्पद्य स्वेन रूपेणाभिनिष्पद्यते' इति तस्यैव परंज्योतिष्ट्वोक्तेः । सावकाशिƒङ्गान्निरवकाशश्रुतेरेव बƒवत्वात् ।।3।। न च परमगतित्वादीश्वराभुक्ता अपि भोगा मुक्तौ भवन्ति । ईश्वरस्य स्वत एव पूर्णानन्दत्वादभोगस्यापि सम्भवादिति वाच्यम् । पूर्णानन्दः पूर्णभुक् पूर्णकर्ता पूर्णज्ञानः पूर्णभाः पूर्णशक्तिः । "आश्चर्यत्वात् भगवान् वासुदेवो विरुद्धशक्तिर्न च दोषस्पृगीशः' इत्याश्चर्यतयैव ब्रह्मण उभयोक्तेः । सावकाशोपपत्तिमात्रान्निरवकाशश्रुतियुक्तोपपत्तेरेव बƒवत्वात् ।।4।। न च पारगतत्वान्मुक्तस्य चिन्मात्रदेहोपि नास्तीति वाच्यम् । अकृत्रिमत्वात् तस्य देहस्याप्यनपगमात् । "अथ विमुक्तस्य चिन्मात्र एव देहो भवति चिन्मात्राणि करणानि तैरीशानुगृहीतैर्भोगान् भुङ्क्ते' इति श्रुतेः ।।5।। न च भगवदोकः स्थितत्वात् मुक्तस्य तस्याप्योकस्त्वसाम्येन तत्तदुपायसाध्यभोगसाधनत्वं वाच्यम् । निर्दोषत्वात् तदोकसो मुक्तस्य च सङ्कल्पादेवेति श्रुत्युक्तानुसारेणोपपत्तेः ।।6।। न च परगृहगतत्वादस्य राजगृहगतस्यैव स्वाधमा अपि कदाचिदीशते । निर्दोषत्वादेव मुक्तस्येश्वरस्य तत्रस्थानां मुक्तान्तराणां च राजदोषवद्दोषासम्भवाद्यथा योग्यमेव स्वीकारोपपत्तेः । मुक्तानां पतयो देवा देवानां च प्रजापतिः । तस्य विष्णुर्न चैवेदं पारावर्यं विनश्यति ।। इति च श्रुतिः ।।7।। न च देहभावे तत्कार्यदुःखादिस्तदभावे भोगासम्भव इति दोषः । देहाभावाच्च भावाच्च निर्भोगित्वं च दुःखिताम् । यान्त्यमुक्ता नोभयं च मुक्तानां वशिता यतः ।। इति श्रुत्यैव विशेषक्लृप्तेः ।।8।। न च सङ्कल्पादेव समस्तसम्भवात् सृष्ट्यादिसमस्तकार्यसम्भवः । व्यापारो जगतो शुद्धमपि वह्निकार्यकरं भवेत् । अयोग्याशक्तितस्त्वेव नाधिकानन्दसम्भवः ।। न हि कश्चित् सुशक्तोपि चकाराचेतनं चितिम् । न च कामस्तथा भूयात् ततः स्यात् सत्यकामता ।। इति श्रुत्या विशेषक्लृप्तेरेव । मुक्तानां न जगद्यत्नस्तथापि विबुधाः सदा । मुक्तानां तु नियन्तारस्तेषां ब्रह्मास्य वै हरिः ।। इति च विशेषक्लृप्तिः ।।9।। न च वशित्वान्मुक्तस्यापि वृद्धिः । कृतकृत्यत्वेन निःश्रमत्वादुपासनादावभ्यासपाटवात् निर्दोषत्वात् स्नेहाधिक्याच्च तस्यैव परमसुखरूपत्वेन फƒस्वरूपत्वात् । अभ्यासपाटवात् स्नेहादश्रमत्वादुपासना । भक्तिश्च सुखरूपैव मुक्तानां न तु साधनम् ।। इति च श्रुतिः ।।10।। न चानन्तत्वात् काƒस्य त्रयोदशीपञ्चदशीवत् कदाचित् समस्तस्यापि सम्भवान्मुक्तस्यापि पुनरावृत्त्याशङ्केति वाच्यम् । सत्यकामत्वादिमाहात्म्यात् । "अदोषकामसत्यत्वात् मुक्तानामपुनर्भवः । यस्मात् स कामयेदेव नित्यमात्मापुनर्भवम् ।।' इत्यनन्तमहान्यायमीमांसापारवारिधेः । उत्तारणात्यशक्त्यैव व्याकुƒीकृतचेतसाम् ।। मन्दानामुपकाराय महतां चोच्छ्रितात्मनाम् । तद्विशेषपरिज्ञानप्रदीप्तार्काभचेतसाम् ।। विशेषगाढे मनसि नितरामुपकारकः । न्यायप्ƒवो मयाकारि सङ्क्षेपात् प्रमिताक्षरैः ।। विस्तरोप्ययमेव स्यात् तद्विशेषातिवेदिनाम् । व्याख्यानुव्याख्यायोरेव विस्तारो यदुदीरितः ।। अनल्पचेतसां पुंसामƒं विज्ञानसिद्धये । तन्न्यायोद्धरणेशक्ता अपि ह्येतेन सुस्थिरम् ।। न्यायानुगं मनः कुर्युरिति संग्रहƒाƒसाः । को नामाशेषविद्योरुसागरोन्मथनोद्धृतम् ।। साक्षाद्विद्याधिराजेन न्यायामृतमनुत्तमम् । अशेषतोधिगच्छेत वन्द्यो वृन्दारकोपि सन् ।। एवं सुदुर्ƒभेप्यद्धा महान्यायपरामृते । केचनाधिक्रियन्तेत्र तत्प्रसादानुरञ्जिताः ।। ब्रह्माद्या अमृते यद्वत् सागरोन्मथनोद्धृते । अहं तु तत्प्रसादैकमहास्पदबƒोद्धतः ।। न्यायमृतार्णवमिममवगाह्य विभज्य च । सङ्क्षेपविस्तराभ्यां च चकार व्याकृतिं कृतिम् ।। तत्प्रसादमृते कस्य शक्तिः संसारसागरे । मग्नस्य चेतनस्य स्यात् तत्कृतानुकूतौ क्वचित् ।। नित्यानन्दामृतस्यन्दितत्कटाक्षैधितस्य तु । का नु शक्तिर्भवेन्नैव ततः को वातिविस्मयः ।। विद्याविद्ये सुखं दुःखमशक्तिः शक्तिरेव च । उत्पत्तिस्थितिनाशाश्च विशेषाश्च परेखिƒाः ।। चेतनाचेतनस्यास्य समस्तस्य यदिच्छया । स मम स्वकृतेनैव प्रीयतां पुरुषोत्तमः ।। यस्य त्रीण्युदितानि वेदवचने रूपणि दिव्यान्यƒं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचो नयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ।। नमोजभवभूर्यक्षपुरःसरसुराश्रय । नारायणारणं मह्यं मापते प्रेयसां प्रिय ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रनुव्याख्यान्यायविवरणे चतुर्थाध्यायस्य चतुर्थः पादः ।।